Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Om Namo Vache

👤 Uma Mohan 🎼 Shanti Mantra ⏱️ 5:24
🎵 2067 characters
⏱️ 5:24 duration
🆔 ID: 11552989

📜 Lyrics

ऊँ नमो वाचे या चोदिता या चानुदिता
तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये
नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो
मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माऽहमृषीन्
मन्त्रकृतो मन्त्रपतीन् परादां
वैश्वदेवीं वाचमुद्यासँ शिवामदस्तांजुष्टां
देवेभ्यः शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत्।
शर्म चन्द्रश्च सूर्यश्च शर्म
ब्रह्मप्रजापती। भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये
यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये
तस्मा अहमिदमुपस्तरण-मुपस्तृण
उपस्तरणं मे प्रजायै पशूनां भुय़ादुपस्तरणमहं
प्रजायै पशूनां भूयासं प्राणापानौ
मृत्योर मा पातं प्राणापानौ मा माहासिष्टं
मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु
वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु॥
ऊँ शान्तिः शान्तिः शान्तिः ॥७॥

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings