Shri Shivashtakam
🎵 2869 characters
⏱️ 4:11 duration
🆔 ID: 14547375
📜 Lyrics
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं
शङ्करं शम्भुमीशानमीडे
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम्
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं
शङ्करं शम्भुमीशानमीडे
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिह्यपारं महामोहहारं शिवं
शङ्करं शम्भुमीशानमीडे
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं
शङ्करं शम्भुमीशानमीडे
गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ
संस्थितं सर्वदा सन्नगेहम् परब्रह्मब्रह्मादिभिर्वन्ध्यमानं
शिवं शङ्करं शम्भुमीशानमीडे
कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं
शङ्करं शम्भुमीशानमीडे
शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं
पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं
शङ्करं शम्भुमीशानमीडे
हरं सर्पहारं चिता भूविहारं भवं
वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं
शङ्करं शम्भुमीशानमीडे
स्तवं यः प्रभाते नरः शूलपाणे
पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं
विचित्रं समासाद्य मोक्षं प्रयाति
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं
शङ्करं शम्भुमीशानमीडे
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम्
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं
शङ्करं शम्भुमीशानमीडे
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिह्यपारं महामोहहारं शिवं
शङ्करं शम्भुमीशानमीडे
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं
शङ्करं शम्भुमीशानमीडे
गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ
संस्थितं सर्वदा सन्नगेहम् परब्रह्मब्रह्मादिभिर्वन्ध्यमानं
शिवं शङ्करं शम्भुमीशानमीडे
कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं
शङ्करं शम्भुमीशानमीडे
शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं
पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं
शङ्करं शम्भुमीशानमीडे
हरं सर्पहारं चिता भूविहारं भवं
वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं
शङ्करं शम्भुमीशानमीडे
स्तवं यः प्रभाते नरः शूलपाणे
पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं
विचित्रं समासाद्य मोक्षं प्रयाति