Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Madhurashtakam

👤 Agam Aggarwal 🎼 Madhurashtakam - Single ⏱️ 6:41
🎵 1634 characters
⏱️ 6:41 duration
🆔 ID: 5768476

📜 Lyrics

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।1।।

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।2।।

वेणुर्मधुरो रेणुर्मधुर:,पाणिर्मधुर: पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।3।।

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।4।।

करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।5।।

गुंजा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।6।

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings